मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०८, ऋक् २

संहिता

यस्य॑ ते पी॒त्वा वृ॑ष॒भो वृ॑षा॒यते॒ऽस्य पी॒ता स्व॒र्विदः॑ ।
स सु॒प्रके॑तो अ॒भ्य॑क्रमी॒दिषोऽच्छा॒ वाजं॒ नैत॑शः ॥

पदपाठः

यस्य॑ । ते॒ । पी॒त्वा । वृ॒ष॒भः । वृ॒ष॒ऽयते॑ । अ॒स्य । पी॒ता । स्वः॒ऽविदः॑ ।
सः । सु॒ऽप्रके॑तः । अ॒भि । अ॒क्र॒मी॒त् । इषः॑ । अच्छ॑ । वाज॑म् । न । एत॑शः ॥

सायणभाष्यम्

वृषभः कामानां वर्षकइन्द्रः यस्य ते त्वां पीत्वा वृषायते वृषभइवाचरति । किंच सर्विदः सर्वस्य दर्शकस्यास्य ते तव पीता पानेसति सुप्रकेतः सुप्रज्ञः सइन्द्रः इषः शत्रू- णामन्नानि अभ्यक्रमीत् अभिक्रामति । तत्र दृष्टान्तः—वाजं नैतशः एतशः इत्यश्वनाम यथाश्वोवाजं संग्रामं अभिगच्छति तद्वत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७