मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०८, ऋक् ६

संहिता

य उ॒स्रिया॒ अप्या॑ अ॒न्तरश्म॑नो॒ निर्गा अकृ॑न्त॒दोज॑सा ।
अ॒भि व्र॒जं त॑त्निषे॒ गव्य॒मश्व्यं॑ व॒र्मीव॑ धृष्ण॒वा रु॑ज ॥

पदपाठः

यः । उ॒स्रियाः॑ । अप्याः॑ । अ॒न्तः । अश्म॑नः । निः । गाः । अकृ॑न्तत् । ओज॑सा ।
अ॒भि । व्र॒जम् । त॒त्नि॒षे॒ । गव्य॑म् । अश्व्य॑म् । व॒र्मीऽइ॑व । धृ॒ष्णो॒ इति॑ । आ । रु॒ज॒ ॥

सायणभाष्यम्

यः सोमः उस्रियाः उत्सरणशीलाः अप्याः अपइत्यन्तरिक्षनाम तस्माद्भवेश्छन्दसीति यत् अन्तरिक्षस्थाः अहिप्रभृतिभिरसुरैः अपहृत्य निहितागाः अपः अश्मनः मेघनामैतत् मेघादन्तः ओजसा बलेन निरकृंतत् निरच्छिनत् अन्तरिक्षाद्वृष्टिमकार्षीदित्यर्थः । सत्वं असुरैरपहृतं गव्यं गोसंबन्धिनं अश्व्यं अश्वेषु भवं व्रजं समूहं अभितत्निषे अभितोव्याप्नो- षि तनुविस्तारे छान्दसे लिटि तनिपत्योश्छन्दसीत्युपधालोपः । किंच हे धृष्णो शत्रुधर्ष- णशील सोम सत्वं वर्गीव कवचीव शूरः आरुज असुरानाजहि ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८