मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०८, ऋक् ७

संहिता

आ सो॑ता॒ परि॑ षिञ्च॒ताश्वं॒ न स्तोम॑म॒प्तुरं॑ रज॒स्तुर॑म् ।
व॒न॒क्र॒क्षमु॑द॒प्रुत॑म् ॥

पदपाठः

आ । सो॒त॒ । परि॑ । सि॒ञ्च॒त॒ । अश्व॑म् । न । स्तोम॑म् । अ॒प्ऽतुर॑म् । र॒जः॒ऽतुर॑म् ।
व॒न॒ऽक्र॒क्षम् । उ॒द॒ऽप्रुत॑म् ॥

सायणभाष्यम्

हे ऋत्विजः आसोत सोममभिषुणुत षुञ् अभिषवे लोटि छान्दसोविकरणस्य लुक् तप्तनप्तनथनाश्चेति तस्यतबादेशः । किंच परिषिंचत परितस्तं वसतीवर्यादिभिः सिंचत । कीदृशं अश्वंन अश्वमिव वेगिनं स्तोमं स्तव्यं अप्तुरं अन्तरिक्षस्थितानामुदकानांप्रेरकं रज- स्तुरं तेजसांच प्रेरकं वनक्रक्षं उदकानां वर्षकं यद्वा काष्ठेषु पात्रेषु विप्रकीर्णं उदप्रुतं उदके गच्छन्तं प्लवमानं सोममभिषुणुत अभिषिंचत ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८