मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०८, ऋक् ८

संहिता

स॒हस्र॑धारं वृष॒भं प॑यो॒वृधं॑ प्रि॒यं दे॒वाय॒ जन्म॑ने ।
ऋ॒तेन॒ य ऋ॒तजा॑तो विवावृ॒धे राजा॑ दे॒व ऋ॒तं बृ॒हत् ॥

पदपाठः

स॒हस्र॑ऽधारम् । वृ॒ष॒भम् । प॒यः॒ऽवृध॑म् । प्रि॒यम् । दे॒वाय॑ । जन्म॑ने ।
ऋ॒तेन॑ । यः । ऋ॒तऽजा॑तः । वि॒ऽव॒वृ॒धे । राजा॑ । दे॒वः । ऋ॒तम् । बृ॒हत् ॥

सायणभाष्यम्

सहस्रधारं बहुधारोपेतं बृषभं कामानां वर्षकं पयोवृधं उदकानां वर्धकं प्रियं प्रीण- यितारं तं सोमं देवाय देवसंबन्धिने जन्मने देवेभ्यस्तदर्थं अभिषुणुत ऋतजातः उदका- ज्जातोयोराजा सोमः ऋतेन वसतीवर्याख्येनोदकेन विववृधे विशेषेण वर्धते । कीदृशः देवोद्योतमानः स्तोतव्योवा ऋतं सत्यभूतः सन् बृहत् महान्तमासुनुतेति पूर्वेण समन्वयः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८