आ व॑च्यस्व सुदक्ष च॒म्वो॑ः सु॒तो वि॒शां वह्नि॒र्न वि॒श्पति॑ः ।
वृ॒ष्टिं दि॒वः प॑वस्व री॒तिम॒पां जिन्वा॒ गवि॑ष्टये॒ धियः॑ ॥
आ । व॒च्य॒स्व॒ । सु॒ऽद॒क्ष॒ । च॒म्वोः॑ । सु॒तः । वि॒शाम् । वह्निः॑ । न । वि॒श्पतिः॑ ।
वृ॒ष्टिम् । दि॒वः । प॒व॒स्व॒ । री॒तिम् । अ॒पाम् । जिन्व॑ । गोऽइ॑ष्टये । धियः॑ ॥
हे सुदक्ष सुबल सोम चम्वोरधिषवणफलकयोः सुतोभिषुतस्त्वं विशां प्रजानां वह्नि- र्वोढा विश्पतीराजेव सर्वासां प्रजानां वोढा त्वं आवच्यस्व आगच्छ कलशमापवस्व । व- चेर्गत्यर्थस्य व्यत्ययेन श्यनि रूपम् । किंच त्वं वृष्टिंवृष्यमाणामपामुदकानां रीतिं गतिं दिवोद्युलोकात् पवस्व कुरु । ततः गविष्टये गामात्मनइच्छते यजमानाय धियः कर्माणि जिन्व पूरय ॥ १० ॥