मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०८, ऋक् ११

संहिता

ए॒तमु॒ त्यं म॑द॒च्युतं॑ स॒हस्र॑धारं वृष॒भं दिवो॑ दुहुः ।
विश्वा॒ वसू॑नि॒ बिभ्र॑तम् ॥

पदपाठः

ए॒तम् । ऊं॒ इति॑ । त्यम् । म॒द॒ऽच्युत॑म् । स॒हस्र॑ऽधारम् । वृ॒ष॒भम् । दिवः॑ । दु॒हुः॒ ।
विश्वा॑ । वसू॑नि । बिभ्र॑तम् ॥

सायणभाष्यम्

दिवः देवान् कामयमानाऋत्विजः एतं त्यं तमिमं सोममेव दुहुः दुदुहुः दुहन्ति । ग्रावाणोवत्साऋत्विजोदुहन्तीतितैन्तिरीयकब्राह्मणम् । कीदृशं सोमं मदच्युतं मदस्य प्रेरकं सहस्रधारं बहुधारं वृषभं कामानां वर्षकं विश्वा सर्वाणि वसूनि धनानि बिभ्रतं धार- यन्तं सोमं दुहन्ति ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९