मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०८, ऋक् १२

संहिता

वृषा॒ वि ज॑ज्ञे ज॒नय॒न्नम॑र्त्यः प्र॒तप॒ञ्ज्योति॑षा॒ तमः॑ ।
स सुष्टु॑तः क॒विभि॑र्नि॒र्णिजं॑ दधे त्रि॒धात्व॑स्य॒ दंस॑सा ॥

पदपाठः

वृषा॑ । वि । ज॒ज्ञे॒ । ज॒नय॑न् । अम॑र्त्यः । प्र॒ऽतप॑न् । ज्योति॑षा । तमः॑ ।
सः । सुऽस्तु॑तः । क॒विऽभिः॑ । निः॒ऽनिज॑म् । द॒धे॒ । त्रि॒ऽधातु॑ । अ॒स्य॒ । दंस॑सा ॥

सायणभाष्यम्

वृषा कामानां वर्षकः अमर्त्योमनुष्यधर्मरहितः सोमः विजज्ञे विज्ञायते । किंकुर्वन् जन- यन् शब्दं ज्योतिर्वा उत्पादयन् ज्योतिषा स्वीयेन तमः प्रतपन् प्रज्वलयन् विनाशयन् प्रादुर्भवति । ततः कविभिर्मेधाविभिः स्तोतृभिः सुष्टुतः ससोमः निर्निजं निर्नेजनहेतुं मि- श्रणं गव्यं दधेधारयति । अथ त्रिधातु त्रिषु सवनेषु देवानां पोषकं यद्वा त्रयः सोमधा- रकाः द्रोणकलशादयः यस्मिन् तद्यज्ञार्थं कर्म अस्य सोमस्य दंससा कर्मणा ध्रियते खलु ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९