मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०८, ऋक् १३

संहिता

स सु॑न्वे॒ यो वसू॑नां॒ यो रा॒यामा॑ने॒ता य इळा॑नाम् ।
सोमो॒ यः सु॑क्षिती॒नाम् ॥

पदपाठः

सः । सु॒न्वे॒ । यः । वसू॑नाम् । यः । रा॒याम् । आ॒ऽने॒ता । यः । इळा॑नाम् ।
सोमः॑ । यः । सु॒ऽक्षि॒ती॒नाम् ॥

सायणभाष्यम्

ससोमः सुन्वे अभिसुषुवे ऋत्विग्भिः । यः सोमः वसूनां धनानां आनेता यश्च रायां रांति प्रयच्छन्ति क्षीरादिकमिति रायोगावः तेषामानेता यश्च इळानामन्नानां च यश्च सोमः सुक्षितीनां सुनिवासानां शोभनमनुष्ययुक्तानां गृहाणां आनेता विद्यते सोभिषूतो- भूदिति ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९