मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०८, ऋक् १४

संहिता

यस्य॑ न॒ इन्द्र॒ः पिबा॒द्यस्य॑ म॒रुतो॒ यस्य॑ वार्य॒मणा॒ भगः॑ ।
आ येन॑ मि॒त्रावरु॑णा॒ करा॑मह॒ एन्द्र॒मव॑से म॒हे ॥

पदपाठः

यस्य॑ । नः॒ । इन्द्रः॑ । पिबा॑त् । यस्य॑ । म॒रुतः॑ । यस्य॑ । वा॒ । अ॒र्य॒मणा॑ । भगः॑ ।
आ । येन॑ । मि॒त्रावरु॑णा । करा॑महे । आ । इन्द्र॑म् । अव॑से । म॒हे ॥

सायणभाष्यम्

नोस्मदीयं यस्य यं सोमं इन्द्रः पिबात् पिबति । पा पाने लेट्यडागमः । यंच सोमं मरुतः पिबन्ति वा । अपिच अर्यमणा एतन्नामकेन देवेन सह भगोदेवोयं सोमं पिबति । येन सोमेन मित्रावरुण मित्रावरुणौ वयमाकरामहे अभिमुखीकुर्महे । तथा महे महते अवसे रक्षणाय येन च सोभेन इन्द्रमभिमुखीकुर्महे ससोमोभिषूयते ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९