मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०८, ऋक् १५

संहिता

इन्द्रा॑य सोम॒ पात॑वे॒ नृभि॑र्य॒तः स्वा॑यु॒धो म॒दिन्त॑मः ।
पव॑स्व॒ मधु॑मत्तमः ॥

पदपाठः

इन्द्रा॑य । सो॒म॒ । पात॑वे । नृऽभिः॑ । य॒तः । सु॒ऽआ॒यु॒धः । म॒दिन्ऽत॑मः ।
पव॑स्व । मधु॑मत्ऽतमः ॥

सायणभाष्यम्

हे सोम मधुमत्तमः अतिशयेन माधुर्योपेतस्त्वं इन्द्राय पातवे पानार्थं पवस्व कलशे क्षर । कीदृशः नृभिः कर्मनेतृभिरृत्विग्भिः यतः संयतः स्वायुधः शोभनस्फ्यकपालाद्यायु- धोपेतः मदिन्तमः मादयितृतमः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९