मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०८, ऋक् १६

संहिता

इन्द्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श समु॒द्रमि॑व॒ सिन्ध॑वः ।
जुष्टो॑ मि॒त्राय॒ वरु॑णाय वा॒यवे॑ दि॒वो वि॑ष्ट॒म्भ उ॑त्त॒मः ॥

पदपाठः

इन्द्र॑स्य । हार्दि॑ । सो॒म॒ऽधान॑म् । आ । वि॒श॒ । स॒मु॒द्रम्ऽइ॑व । सिन्ध॑वः ।
जुष्टः॑ । मि॒त्राय॑ । वरु॑णाय । वा॒यवे॑ । दि॒वः । वि॒ष्ट॒म्भः । उ॒त्ऽत॒मः ॥

सायणभाष्यम्

हे सोम त्वमिन्द्रस्य हार्दि हृदयंगमं हृदयभूतंवा सोमधानं सोमोनिधीयतेस्मिन्निति सोमधानः कलशः तमाविश प्रविश । तत्र दृष्टान्तः—समुद्रमिव यथा समुद्रं सिन्धवोनद्यः प्रविशन्ति तद्वत् । कीदृशः त्वं मित्राय वरुणाय वायवे तेभ्यो जुष्टः दिवोद्युलोकस्य विष्टंभः विष्टंभयिता स्थापयिता उत्तमः सर्वेषामुत्कृष्टतमः त्वं कलशमाविश ॥ १६ ॥

परिप्रेति द्वाविंशत्यृचं द्वैपदं षष्ठं सूक्तं यज्ञे सदस्यवस्थितहोत्रीयादिधिष्णयोपेताअग्नयो नामईश्वरपुत्राऋषयः विंशतिकाद्विपदाविशजः पवमानःसोमोदेवता । तथाचानुक्रान्तं— परिप्रद्भ्यधिकाग्नयोधिष्णयाऎश्वराद्वैपदमिति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९