मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०९, ऋक् १

संहिता

परि॒ प्र ध॒न्वेन्द्रा॑य सोम स्वा॒दुर्मि॒त्राय॑ पू॒ष्णे भगा॑य ॥

पदपाठः

परि॑ । प्र । ध॒न्व॒ । इन्द्रा॑य । सो॒म॒ । स्वा॒दुः । मि॒त्राय॑ । पू॒ष्णे । भगा॑य ॥

सायणभाष्यम्

हे सोम स्वादुः स्वादुरसः त्वं इन्द्राय मित्राय पूष्णे भगाय एतेभ्योदेवेभ्यः परिप्रध- न्व परितः पात्रेषु क्षर ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०