मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०९, ऋक् २

संहिता

इन्द्र॑स्ते सोम सु॒तस्य॑ पेया॒ः क्रत्वे॒ दक्षा॑य॒ विश्वे॑ च दे॒वाः ॥

पदपाठः

इन्द्रः॑ । ते॒ । सो॒म॒ । सु॒तस्य॑ । पे॒याः॒ । क्रत्वे॑ । दक्षा॑य । विश्वे॑ । च॒ । दे॒वाः ॥

सायणभाष्यम्

हे सोम सुतस्याभिषुतस्य ते तव स्वं भागं इन्द्रः पेयाः पेयात् पिबतु पातेराशीर्लि- ङि रूपं पुरुषव्यत्ययः । किमर्थं क्रत्वे क्रतवे प्रज्ञानाय दक्षाय बलायच । किंच अमी सर्वे विश्वे देवाश्च त्वदीयमंशं पिबंतु ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०