मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०९, ऋक् ३

संहिता

ए॒वामृता॑य म॒हे क्षया॑य॒ स शु॒क्रो अ॑र्ष दि॒व्यः पी॒यूषः॑ ॥

पदपाठः

ए॒व । अ॒मृता॑य । म॒हे । क्षया॑य । सः । शु॒क्रः । अ॒र्ष॒ । दि॒व्यः । पी॒यूषः॑ ॥

सायणभाष्यम्

हे सोम शुक्रोदीप्तः दिव्योदिविभवः पीयूषः देवैः पातव्यः सत्वं अमृताय अमरणाय महे महते क्षयाय निवासायच एवार्ष एवं पवस्व क्षर ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०