मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०९, ऋक् ४

संहिता

पव॑स्व सोम म॒हान्त्स॑मु॒द्रः पि॒ता दे॒वानां॒ विश्वा॒भि धाम॑ ॥

पदपाठः

पव॑स्व । सो॒म॒ । म॒हान् । स॒मु॒द्रः । पि॒ता । दे॒वाना॑म् । विश्वा॑ । अ॒भि । धाम॑ ॥

सायणभाष्यम्

हे सोम महान् देवेभ्योदीयमानत्वेन महत्त्वयुक्तः समुद्रः समुन्दनः यस्मात् समुद्रवन्ति रसास्तादृशः पिता सर्वेषां पालयिता त्वं देवानां विश्वा विश्वानि सर्वाणि धाम धामानि शरीराणि अभिलक्ष्य पवस्व ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०