मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०९, ऋक् ६

संहिता

दि॒वो ध॒र्तासि॑ शु॒क्रः पी॒यूषः॑ स॒त्ये विध॑र्मन्वा॒जी प॑वस्व ॥

पदपाठः

दि॒वः । ध॒र्ता । अ॒सि॒ । शु॒क्रः । पी॒यूषः॑ । स॒त्ये । विऽध॑र्मन् । वा॒जी । प॒व॒स्व॒ ॥

सायणभाष्यम्

हे सोम शुक्रोदीप्तः पीयूषः पातव्यस्त्वं दिवोद्युलोकस्य धर्ता धारकोसि । वाजी बल- वान् सत्वं सत्ये सत्यभूते विधर्मन् विधर्मणि विविधकर्माणः ऋत्विजोयस्मिन् यद्वा विवि धसोमादिहविषां धारकेस्मिन्यज्ञे पवस्व क्षर ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०