मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०९, ऋक् ७

संहिता

पव॑स्व सोम द्यु॒म्नी सु॑धा॒रो म॒हामवी॑ना॒मनु॑ पू॒र्व्यः ॥

पदपाठः

पव॑स्व । सो॒म॒ । द्यु॒म्नी । सु॒ऽधा॒रः । म॒हाम् । अवी॑नाम् । अनु॑ । पू॒र्व्यः ॥

सायणभाष्यम्

हेसोम द्युम्नी । द्युम्नं द्योततेर्यशोवान्नंवेतियास्कः । अन्नवान् यशस्वी वा सुधारः शोभ नधारायुक्तः पूर्व्यः पुरातनस्त्वं महां महांतं अवीनां रोम्णां रोमभ्यं सकाशादनुक्रमेण पवस्व क्षर ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०