मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०९, ऋक् ८

संहिता

नृभि॑र्येमा॒नो ज॑ज्ञा॒नः पू॒तः क्षर॒द्विश्वा॑नि म॒न्द्रः स्व॒र्वित् ॥

पदपाठः

नृऽभिः॑ । ये॒मा॒नः । ज॒ज्ञा॒नः । पू॒तः । क्षर॑त् । विश्वा॑नि । म॒न्द्रः । स्वः॒ऽवित् ॥

सायणभाष्यम्

नृभिः कर्मनेतृभिरृत्विग्भिः येमानोनियम्यमानः जज्ञानः जायमानः पूतः पवित्रेण शो- धितः मन्द्रोमोदमानः स्वर्वित् सर्वज्ञः एतादृशः सोमः विश्वानि सर्वाणि धनान्यस्मभ्यं क्षरत् क्षरतु ददातु ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०