मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०९, ऋक् १०

संहिता

पव॑स्व सोम॒ क्रत्वे॒ दक्षा॒याश्वो॒ न नि॒क्तो वा॒जी धना॑य ॥

पदपाठः

पव॑स्व । सो॒म॒ । क्रत्वे॑ । दक्षा॑य । अश्वः॑ । न । नि॒क्तः । वा॒जी । धना॑य ॥

सायणभाष्यम्

हे सोम अश्वोन अश्वइव निक्तः वसतीवरीभिरद्भिः निक्तः वाजी वेगवांस्त्वं क्रत्वे क्रतवे प्रज्ञानाय दक्षाय बलाय धनाय धनार्थं च पवस्व क्षर ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०