मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०९, ऋक् ११

संहिता

तं ते॑ सो॒तारो॒ रसं॒ मदा॑य पु॒नन्ति॒ सोमं॑ म॒हे द्यु॒म्नाय॑ ॥

पदपाठः

तम् । ते॒ । सो॒तारः॑ । रस॑म् । मदा॑य । पु॒नन्ति॑ । सोम॑म् । म॒हे । द्यु॒म्नाय॑ ॥

सायणभाष्यम्

सोतारः अभिषोतारः ऋत्विजः हे सोम ते तव स्वभूतं रसं मदाय मदार्थं पुनन्ति । तदेवोच्यते—महे महते द्युम्नाय द्युम्नं द्योततेर्यशोवान्नंवा । अन्नाय यशसेवा सोमं पुनन्ति शोधयन्ति । यद्वा सोममभिषूयमाणं तं रसं पुनन्तीति एकवाक्यतया योजनीयं ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१