मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०९, ऋक् १२

संहिता

शिशुं॑ जज्ञा॒नं हरिं॑ मृजन्ति प॒वित्रे॒ सोमं॑ दे॒वेभ्य॒ इन्दु॑म् ॥

पदपाठः

शिशु॑म् । ज॒ज्ञा॒नम् । हरि॑म् । मृ॒ज॒न्ति॒ । प॒वित्रे॑ । सोम॑म् । दे॒वेभ्यः॑ । इन्दु॑म् ॥

सायणभाष्यम्

शिशुमपां पुत्रभूतं जज्ञानं जायमानं हरिं हरितवर्णं इन्दुं दीप्तं सोमं देवेभ्योदेवार्थं पवित्रे मृजन्ति ऋत्विजोमार्जयन्ति ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१