मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०९, ऋक् १३

संहिता

इन्दु॑ः पविष्ट॒ चारु॒र्मदा॑या॒पामु॒पस्थे॑ क॒विर्भगा॑य ॥

पदपाठः

इन्दुः॑ । प॒वि॒ष्ट॒ । चारुः॑ । मदा॑य । अ॒पाम् । उ॒पऽस्थे॑ । क॒विः । भगा॑य ॥

सायणभाष्यम्

चारुः कल्याणरूपः कविः क्रान्तप्रज्ञः इन्दुः अपामुद्कानामुपस्थे उपस्थाने अन्तरिक्षे पवित्रे वा मदाय मदार्थं भगाय भजनीयधनार्थंच पविष्ट पवते ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१