मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०९, ऋक् १४

संहिता

बिभ॑र्ति॒ चार्विन्द्र॑स्य॒ नाम॒ येन॒ विश्वा॑नि वृ॒त्रा ज॒घान॑ ॥

पदपाठः

बिभ॑र्ति । चारु॑ । इन्द्र॑स्य । नाम॑ । येन॑ । विश्वा॑नि । वृ॒त्रा । ज॒घान॑ ॥

सायणभाष्यम्

ससोमः चारु कल्याणं इन्द्रस्य नाम शरीरं बिभर्ति धारयति पोषयति । तेन शरी- रेण इन्द्रः विश्वानि सर्वाणि वृत्रा वृत्राणि पापरूपाणि रक्षांसि जघान हतवान् ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१