मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०९, ऋक् १५

संहिता

पिब॑न्त्यस्य॒ विश्वे॑ दे॒वासो॒ गोभि॑ः श्री॒तस्य॒ नृभि॑ः सु॒तस्य॑ ॥

पदपाठः

पिब॑न्ति । अ॒स्य॒ । विश्वे॑ । दे॒वासः॑ । गोभिः॑ । श्री॒तस्य॑ । नृऽभिः॑ । सु॒तस्य॑ ॥

सायणभाष्यम्

विश्वे सर्वे देवासोदेवाः गोभिर्गोविकारैः श्रीतस्य मिश्रितं नृभिः कर्मनेतृभीरृत्विग्भिः सुतस्याभिषुतस्यामुं सोमं पिबन्ति । द्वितीयार्थे षष्ठ्यः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१