मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०९, ऋक् १६

संहिता

प्र सु॑वा॒नो अ॑क्षाः स॒हस्र॑धारस्ति॒रः प॒वित्रं॒ वि वार॒मव्य॑म् ॥

पदपाठः

प्र । सु॒वा॒नः । अ॒क्षा॒रिति॑ । स॒हस्र॑ऽधारः । ति॒रः । प॒वित्र॑म् । वि । वार॑म् । अव्य॑म् ॥

सायणभाष्यम्

सुवानोभिषूयमाणः अतएव सहस्रधारः बहुधारायुक्तः सोमः अव्यं अविभवं वारं वालं पवित्रं तिरः व्यवधायकं कुर्वन् प्र अक्षाः विविधं प्रक्षरन्ति क्षरतेर्लुङि रूपं ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१