मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०९, ऋक् १८

संहिता

प्र सो॑म या॒हीन्द्र॑स्य कु॒क्षा नृभि॑र्येमा॒नो अद्रि॑भिः सु॒तः ॥

पदपाठः

प्र । सो॒म॒ । या॒हि॒ । इन्द्र॑स्य । कु॒क्षा । नृऽभिः॑ । ये॒मा॒नः । अद्रि॑ऽभिः । सु॒तः ॥

सायणभाष्यम्

हे सोम नृभिरृत्विग्भिः येमानोनियम्यमानः अद्रिभिर्ग्रावभिः सुतोभिषुतस्त्वं इन्द्रस्य कुक्षा सप्तम्याडादेशः कुक्षौ उदरभूते कलशॆवा प्रयाहि प्रकर्षेण गच्छ ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१