मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०९, ऋक् २१

संहिता

दे॒वेभ्य॑स्त्वा॒ वृथा॒ पाज॑से॒ऽपो वसा॑नं॒ हरिं॑ मृजन्ति ॥

पदपाठः

दे॒वेभ्यः॑ । त्वा॒ । वृथा॑ । पाज॑से । अ॒पः । वसा॑नम् । हरि॑म् । मृ॒ज॒न्ति॒ ॥

सायणभाष्यम्

हे सोम अपः उदकानि वसानमाच्छादयन्तं हरिं हरितवर्णं त्वा त्वां वृथा अनाया- सेन ऋत्विजोमृजन्ति शोधयन्ति । किमर्थं देवेभ्यः देवानां पानार्थं पाजसे तेषां बलार्थं ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१