मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०९, ऋक् २२

संहिता

इन्दु॒रिन्द्रा॑य तोशते॒ नि तो॑शते श्री॒णन्नु॒ग्रो रि॒णन्न॒पः ॥

पदपाठः

इन्दुः॑ । इन्द्रा॑य । तो॒श॒ते॒ । नि । तो॒श॒ते॒ । श्री॒णन् । उ॒ग्रः । रि॒णन् । अ॒पः ॥

सायणभाष्यम्

इन्दुः सोमः इन्द्रायेन्द्रार्थं तोशते हन्यते अभिषूयते नितोशते नितरामभिषूयते तोश- तिर्वधकर्मा । कीदृशः श्रीणन् प्रेरयन् उग्रउद्गूर्णः सोमोभिषूयते ॥ २२ ॥

पर्यूष्विति द्वादशर्चं सप्तमं सूक्तं त्र्यरूणत्रसदस्यू राजर्षी अस्यसूक्तस्य द्रष्टारौ आदित- स्तिस्रः पिपीलिकमध्याअनुष्टुभः द्वादशकाष्टकद्वादशकवत्यः ततः षडूर्ध्वबृहत्यः द्वादशकत्रय वत्यः अथ दशम्याद्यास्तिस्रोविराजः पवमानः सोमोदेवता । तथाचानुक्रान्तं—पर्यूषु द्वादशत्र्यरुणत्रसद् तिस्रोनुष्टुभः पिपीलिकमध्याः षडूर्ध्वबृहत्यस्तिस्रश्चविराजइति । गतो- विनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१