मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १११, ऋक् २

संहिता

त्वं त्यत्प॑णी॒नां वि॑दो॒ वसु॒ सं मा॒तृभि॑र्मर्जयसि॒ स्व आ दम॑ ऋ॒तस्य॑ धी॒तिभि॒र्दमे॑ ।
प॒रा॒वतो॒ न साम॒ तद्यत्रा॒ रण॑न्ति धी॒तयः॑ ।
त्रि॒धातु॑भि॒ररु॑षीभि॒र्वयो॑ दधे॒ रोच॑मानो॒ वयो॑ दधे ॥

पदपाठः

त्वम् । त्यत् । प॒णी॒नाम् । वि॒दः॒ । वसु॑ । सम् । मा॒तृऽभिः॑ । म॒र्ज॒य॒सि॒ । स्वे । आ । दमे॑ । ऋ॒तस्य॑ । धी॒तिऽभिः॑ । दमे॑ ।
प॒रा॒ऽवतः॑ । न । साम॑ । तत् । यत्र॑ । रण॑न्ति । धी॒तयः॑ ।
त्रि॒धातु॑ऽभिः । अरु॑षीभिः । वयः॑ । द॒धे॒ । रोच॑मानः । वयः॑ । द॒धे॒ ॥

सायणभाष्यम्

हे सोम त्वं त्यत्पणीनां वसु पणिभिरपहृतं गवात्मकं धनं विदः अलभथाः । आ अपिच ऋतस्य यज्ञस्य धीतिभिः धात्रीभिर्मातृभिः वसतीवरीभिः स्वे आत्मीये दमे गृहभूते दमे यज्ञे संमर्जयसि सम्यक् शुद्धोभवसि । परावतोन दूरस्थाद्देशात् यथा साम सामध्वनिः श्रूयते तथा तव तत्साम ध्वनिः सर्वैः श्रूयते । असौ सोमाभिषवाभिप्रायेणो- क्तः । यत्र यस्मिन् शब्दे धीतयः कर्मणोधर्तारोयजमानाः रणंति रमन्ते । रोचमानः सोमः त्रिधातुभिः त्रयाणां लोकानां धारयित्रीभिः मातृभिः वसतीवरीभिः अरुशीभिः आरोचमा- नाभिर्दीप्तिभिः वयोन्नं दधे स्तोतृभ्यः प्रयच्छति पुनर्वयोदधइत्यादरार्थे ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४