मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १११, ऋक् ३

संहिता

पूर्वा॒मनु॑ प्र॒दिशं॑ याति॒ चेकि॑त॒त्सं र॒श्मिभि॑र्यतते दर्श॒तो रथो॒ दैव्यो॑ दर्श॒तो रथः॑ ।
अग्म॑न्नु॒क्थानि॒ पौंस्येन्द्रं॒ जैत्रा॑य हर्षयन् ।
वज्र॑श्च॒ यद्भव॑थो॒ अन॑पच्युता स॒मत्स्वन॑पच्युता ॥

पदपाठः

पूर्वा॑म् । अनु॑ । प्र॒ऽदिश॑म् । या॒ति॒ । चेकि॑तत् । सम् । र॒श्मिऽभिः॑ । य॒त॒ते॒ । द॒र्श॒तः । रथः॑ । दैव्यः॑ । द॒र्श॒तः । रथः॑ ।
अग्म॑न् । उ॒क्थानि॑ । पौंस्या॑ । इन्द्र॑म् । जैत्रा॑य । ह॒र्ष॒य॒न् ।
वज्रः॑ । च॒ । यत् । भव॑थः । अन॑पऽच्युता । स॒मत्ऽसु॑ । अन॑पऽच्युता ॥

सायणभाष्यम्

चेकितत् जानानः सोमः पूर्वां प्राचीं प्रदिशं प्रकृष्टां दिशं अनुयाति अनुगच्छति । किंच दर्शतः सर्वैर्दर्शनीयः दैव्यः देवेषु भवः तव रथः सूर्यरश्मिभिः संयतते संगच्छते पुनर्दर्शतोरथइत्यादरार्थे । ततः पौंस्या पुंस्त्वावगमानि उक्थानि स्तोत्राण्यग्मन् इन्द्रं गच्छन्ति तथा जैत्राय जयार्थं तानि स्तोत्राणि इन्द्रं हर्षयन् हर्षयन्ति । तथा तस्य वज्रश्च तमिन्द्रं गच्छति । यद्यदा समत्सु संग्रामेषु अनपच्युता अनपच्युतौ शत्रुभिः अपराजितौ सोमश्च त्वंच इन्द्रश्च युवां सहभवथः तदा स्तोत्रागमनादीनि भवन्ति पुन- रनपच्युतेत्यादरार्था ॥ ३ ॥

नानानमिति चतुरृचं नवमं सूक्तं आंगिरसस्य शिशुनाम्नआर्षं पंचपदापंक्तिश्छन्दः पव- मानः सोमोदेवता । तथाचानुक्रान्तं –नानानं चतुष्कं शिशुः पांक्तंहीति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४