मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११२, ऋक् १

संहिता

ना॒ना॒नं वा उ॑ नो॒ धियो॒ वि व्र॒तानि॒ जना॑नाम् ।
तक्षा॑ रि॒ष्टं रु॒तं भि॒षग्ब्र॒ह्मा सु॒न्वन्त॑मिच्छ॒तीन्द्रा॑येन्दो॒ परि॑ स्रव ॥

पदपाठः

ना॒ना॒नम् । वै । ऊं॒ इति॑ । नः॒ । धियः॑ । वि । व्र॒तानि॑ । जना॑नाम् ।
तक्षा॑ । रि॒ष्टम् । रु॒तम् । भि॒षक् । ब्र॒ह्मा । सु॒न्वन्त॑म् । इ॒च्छ॒ति॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

सायणभाष्यम्

ऋषिः एतदादिभिः त्रिभिः सूक्तैः अपरिस्रवतः सोमस्य जामित्वाय मनसोविनोदनं कुर्वन्नाह । हे सोम नोस्माकं धियः कर्माणि नानानं नानाजातीयकानि बहूनि भवन्ति वैशब्दः प्रसिद्धार्थद्योतनार्थः उइति पूरणः । तथा अन्येषामपि जनानां व्रतानि कर्माणि विविधानि भवंति तक्षा त्वष्टा रिष्टं दारुतक्षणमिच्छति तथा भिषक् वैद्यः चिकित्सकः रुतं रोगमिच्छति ब्रह्मा ब्राह्मणः सुन्वन्तं सोमाभिषवं कुर्वन्तं यजमानमिच्छति । तथा अहं त्वत्परिस्रवणं इच्छामि । तस्मात् हे इन्दो सोम इन्द्रायेन्द्रार्थं परिस्रव परितः क्षर ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५