मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११२, ऋक् २

संहिता

जर॑तीभि॒रोष॑धीभिः प॒र्णेभि॑ः शकु॒नाना॑म् ।
का॒र्मा॒रो अश्म॑भि॒र्द्युभि॒र्हिर॑ण्यवन्तमिच्छ॒तीन्द्रा॑येन्दो॒ परि॑ स्रव ॥

पदपाठः

जर॑तीभिः । ओष॑धीभिः । प॒र्णेभिः॑ । श॒कु॒नाना॑म् ।
का॒र्मा॒रः । अश्म॑ऽभिः । द्युऽभिः॑ । हिर॑ण्यऽवन्तम् । इ॒च्छ॒ति॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

सायणभाष्यम्

जरतीभिः जीर्णाभिः याभिरोषधीभिः इषवः क्रियन्ते । तथा शकुनानां पर्णेभिः इषू- णां पक्षभूतैः पर्णैश्च क्रियन्ते । तथा द्युभिर्दीप्ताभिरिषूणां तेजनार्थाभिरश्मभिः शिलाभिश्च क्रियन्ते तएतैः कार्मारोयस्कारः हिरण्यवन्तं आढ्यं पुरुषमिच्छति तथाहं त्वत्परिस्रवण- मिच्छामि । तस्मात् इन्दो इन्द्राय परिस्रव ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५