मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११३, ऋक् १

संहिता

श॒र्य॒णाव॑ति॒ सोम॒मिन्द्र॑ः पिबतु वृत्र॒हा ।
बलं॒ दधा॑न आ॒त्मनि॑ करि॒ष्यन्वी॒र्यं॑ म॒हदिन्द्रा॑येन्दो॒ परि॑ स्रव ॥

पदपाठः

श॒र्य॒णाऽव॑ति । सोम॑म् । इन्द्रः॑ । पि॒ब॒तु॒ । वृ॒त्र॒ऽहा ।
बल॑म् । दधा॑नः । आ॒त्मनि॑ । क॒रि॒ष्यन् । वी॒र्य॑म् । म॒हत् । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

सायणभाष्यम्

शर्यणावति शर्यणावन्नामकुरुक्षेत्रस्य जघनार्धे सरः तत्र स्थितं सोमं वृत्रहा इन्द्रः पि- बतु । कीदृशः आत्मनि बलंदधानः बलं निदधानः अतएव महद्वीर्यं करिष्यन् शत्रून् प्रति तस्मादिन्द्रायेन्दो परिस्रव ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६