मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११३, ऋक् २

संहिता

आ प॑वस्व दिशां पत आर्जी॒कात्सो॑म मीढ्वः ।
ऋ॒त॒वा॒केन॑ स॒त्येन॑ श्र॒द्धया॒ तप॑सा सु॒त इन्द्रा॑येन्दो॒ परि॑ स्रव ॥

पदपाठः

आ । प॒व॒स्व॒ । दि॒शा॒म् । प॒ते॒ । आ॒र्जी॒कात् । सोम॑ । मी॒ढ्वः॒ ।
ऋ॒त॒ऽवा॒केन॑ । स॒त्येन॑ । श्र॒द्धया॑ । तप॑सा । सु॒तः । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

सायणभाष्यम्

हे दिशां पते प्राच्यादीनां दिशां प्रकाशकत्वेन स्वामिन् हे मीढ्वः कामानां सेक्तः हेसोम आर्जीकात् ऋजीकानामदूरभवः आर्जीकोजनपदः तस्मादापवस्व अस्मद्यज्ञं प्रत्याग- च्छ । यद्वा आर्जीकात् ऋजोरकुटिलाप् पवित्रात् क्षर । कीदृशः ऋत्वाकेन ऋतस्य वचने- न सत्येन सत्यर्तयोरल्पोभेदोद्रष्टव्यः श्रद्धया तपसा युक्तैः दीक्षितैः सुतोभिषुतस्त्वं पवस्व ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६