मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११३, ऋक् ३

संहिता

प॒र्जन्य॑वृद्धं महि॒षं तं सूर्य॑स्य दुहि॒ताभ॑रत् ।
तं ग॑न्ध॒र्वाः प्रत्य॑गृभ्ण॒न्तं सोमे॒ रस॒माद॑धु॒रिन्द्रा॑येन्दो॒ परि॑ स्रव ॥

पदपाठः

प॒र्जन्य॑ऽवृद्धम् । म॒हि॒षम् । तम् । सूर्य॑स्य । दु॒हि॒ता । आ । अ॒भ॒र॒त् ।
तम् । ग॒न्ध॒र्वाः । प्रति॑ । अ॒गृ॒भ्ण॒न् । तम् । सोमे॑ । रस॑म् । आ । अ॒द॒धुः॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

सायणभाष्यम्

सूर्यस्य दुहिताश्रद्धावैसूर्यस्य दुहितेति वाजसनेयकम् । सा वर्जन्यवृद्धं पर्जन्यवत्समर्थं यद्वा पर्जन्येन तत्कार्यत्वेनोदकेन प्रवृद्धं महिषं महान्तं पूज्यंवा तं सोममाभरत् आहरत् द्युलोकादाहृतवती तमाह्रियमाणं सोमं गंधर्वाः विश्वावसुप्रभृतयः प्रत्यगृभ्णन् प्रत्यगृह्णन् प्रतिगृहीतवन्तः हृग्रहोर्भः । ततः गंधर्वाः प्रतिगृहीतं रसं सोमे प्रत्यक्षमादधुः । दधातेर्ल- ङि । तस्मात् परिस्रव ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६