मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११३, ऋक् ४

संहिता

ऋ॒तं वद॑न्नृतद्युम्न स॒त्यं वद॑न्त्सत्यकर्मन् ।
श्र॒द्धां वद॑न्त्सोम राजन्धा॒त्रा सो॑म॒ परि॑ष्कृत॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥

पदपाठः

ऋ॒तम् । वद॑न् । ऋ॒त॒ऽद्यु॒म्न॒ । स॒त्यम् । वद॑न् । स॒त्य॒ऽक॒र्म॒न् ।
श्र॒द्धाम् । वद॑न् । सो॒म॒ । रा॒ज॒न् । धा॒त्रा । सो॒म॒ । परि॑ऽकृतः । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

सायणभाष्यम्

हे ऋतद्युम्न ऋतेन द्योतमान सत्ययशस्कवा सत्यकर्मन् हे सोम अभिषूयमाण राजन् सर्वेषां यज्ञनिष्पादकत्वेन स्वामिन् हे सोम ऋतं यज्ञं वदन् सत्यं वदन् उज्जारयन् श्रद्धां यजमानानां आत्मनोपेक्षितां वदन् धात्रा कर्मणा धारकेण देवानां पोषकेणवा यजमानेन परिष्कृतोलंकृतस्त्वं इन्द्राय परिस्रव । संपर्युपेभ्यइति भूषणार्थे करोतेः सुट् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६