मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११३, ऋक् ५

संहिता

स॒त्यमु॑ग्रस्य बृह॒तः सं स्र॑वन्ति संस्र॒वाः ।
सं य॑न्ति र॒सिनो॒ रसा॑ः पुना॒नो ब्रह्म॑णा हर॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥

पदपाठः

स॒त्यम्ऽउ॑ग्रस्य । बृ॒ह॒तः । सम् । स्र॒व॒न्ति॒ । स॒म्ऽस्र॒वाः ।
सम् । य॒न्ति॒ । र॒सिनः॑ । रसाः॑ । पु॒ना॒नः । ब्रह्म॑णा । ह॒रे॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

सायणभाष्यम्

सत्यमुग्रस्य संग्रामे सत्येन शत्रूणामुद्गारयितुः यद्वा उद्गूर्णसत्यस्य यद्वा यथार्थभूतमु- द्गूर्णं बलं यस्य तस्य पृषोदरादित्वात् रूपसिद्धिः बृहतोमहतः सोमस्य तव संस्रवाः सम्यक् स्रवणशीलाः धाराः संस्रवन्ति सम्यक् गच्छन्ति । किंच रसिनोरसवतस्तव स्वभू- तारसाः संयन्ति संगच्छन्ते तस्मात् हे हरे हरितवर्ण सोम ब्रह्मणा ब्राह्मणेन मंत्रेणवा पुनानः पूयमानः सत्वमिन्द्रार्थं परिस्रव ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६