मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११३, ऋक् ६

संहिता

यत्र॑ ब्र॒ह्मा प॑वमान छन्द॒स्यां॒३॒॑ वाचं॒ वद॑न् ।
ग्राव्णा॒ सोमे॑ मही॒यते॒ सोमे॑नान॒न्दं ज॒नय॒न्निन्द्रा॑येन्दो॒ परि॑ स्रव ॥

पदपाठः

यत्र॑ । ब्र॒ह्मा । प॒व॒मा॒न॒ । छ॒न्द॒स्या॑म् । वाच॑म् । वद॑न् ।
ग्राव्णा॑ । सोमे॑ । म॒ही॒यते॑ । सोमे॑न । आ॒ऽन॒न्दम् । ज॒नय॑न् । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

सायणभाष्यम्

हे पवमान पूयमान सोम त्वदर्थं छन्दस्यां सप्तच्छन्दोभिः कृतां तेषु भवां वाचं स्तु- तिं वदन् उच्चारयन् सोमे सोमाभिषवार्थं ग्राव्णाभिषवं कुर्वतायुक्तः तेनाभिषुतेन सोमेन देवानामानन्दं सन्तोषं जनयन्नुत्पादयन् ब्रह्मा ब्राह्मणः यत्र यस्मिन्देशे महीयते देवैः पूज्यते तत्र हे सोम त्वं परिस्रव ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७