मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११३, ऋक् ७

संहिता

यत्र॒ ज्योति॒रज॑स्रं॒ यस्मिँ॑ल्लो॒के स्व॑र्हि॒तम् ।
तस्मि॒न्मां धे॑हि पवमाना॒मृते॑ लो॒के अक्षि॑त॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥

पदपाठः

यत्र॑ । ज्योतिः॑ । अज॑स्रम् । यस्मि॑न् । लो॒के । स्वः॑ । हि॒तम् ।
तस्मि॑न् । माम् । धे॒हि॒ । प॒व॒मा॒न॒ । अ॒मृते॑ । लो॒के । अक्षि॑ते । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

सायणभाष्यम्

हे पवमान यत्र यस्मिन्लोके ज्योतिः सर्वं तेजः अजस्रं सर्वदा अविनश्वरं वर्तते । यस्मिंश्च लोके स्वरादित्याख्यं ज्योतिर्हितं निहितमस्ति तस्मिन् अमृते मरणधर्मरहिते अतएव अक्षिते अक्षीणलोके मां सोमाभिषवं कुर्वन्तं धेहि तस्मान्मामुत्तमलोकं प्रापयितुं त्वमिन्द्राय परिस्रव ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७