मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११३, ऋक् ८

संहिता

यत्र॒ राजा॑ वैवस्व॒तो यत्रा॑व॒रोध॑नं दि॒वः ।
यत्रा॒मूर्य॒ह्वती॒राप॒स्तत्र॒ माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो॒ परि॑ स्रव ॥

पदपाठः

यत्र॑ । राजा॑ । वै॒व॒स्व॒तः । यत्र॑ । अ॒व॒ऽरोध॑नम् । दि॒वः ।
यत्र॑ । अ॒मूः । य॒ह्वतीः॑ । आपः॑ । तत्र॑ । माम् । अ॒मृत॑म् । कृ॒धि॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

सायणभाष्यम्

यत्र यस्मिन्लोके वैवस्वतः विवस्वत्पुत्रोराजा भवति यत्रच लोके दिवआदित्यस्यावरो धनं भूतानां प्रवेशनम् । किंच यत्र लोके यह्वतीर्महत्वः अमूरिमागंगाद्याः आपस्तिष्ठन्ति । तत्र तादृशे लोके मां अमृतं मरणधर्मरहितं कृधि कुरु मम देवत्वं प्रापयेत्यर्थः । ततः कारणात् परिस्रव ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७