मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११३, ऋक् ९

संहिता

यत्रा॑नुका॒मं चर॑णं त्रिना॒के त्रि॑दि॒वे दि॒वः ।
लो॒का यत्र॒ ज्योति॑ष्मन्त॒स्तत्र॒ माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो॒ परि॑ स्रव ॥

पदपाठः

यत्र॑ । अ॒नु॒ऽका॒मम् । चर॑णम् । त्रि॒ऽना॒के । त्रि॒ऽदि॒वे । दि॒वः ।
लो॒काः । यत्र॑ । ज्योति॑ष्मन्तः । तत्र॑ । माम् । अ॒मृत॑म् । कृ॒धि॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

सायणभाष्यम्

यत्र त्रिदिवे तृतीयस्यां दिवि द्युलोके त्रिनाके तत्र अधरमध्यमोत्तमभावे न त्रीणि- स्थानानि सन्ति । तत्र तृतीयेनाके उत्तमे स्थाने दिवआदित्यस्यानुकामं कामानुगुणं चर- णमस्ति । किंच यत्र यस्मिन्लोके लोकाः ज्योतिष्मन्तः ज्योतिर्युक्तास्तिष्ठन्ति तत्र तादृशे लोके माममृतं कृधि यथाममोत्तमलोकोभवति तथा त्वमिन्द्राय परिस्रव ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७