मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११३, ऋक् १०

संहिता

यत्र॒ कामा॑ निका॒माश्च॒ यत्र॑ ब्र॒ध्नस्य॑ वि॒ष्टप॑म् ।
स्व॒धा च॒ यत्र॒ तृप्ति॑श्च॒ तत्र॒ माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो॒ परि॑ स्रव ॥

पदपाठः

यत्र॑ । कामाः॑ । नि॒ऽका॒माः । च॒ । यत्र॑ । ब्र॒ध्नस्य॑ । वि॒ष्टप॑म् ।
स्व॒धा । च॒ । यत्र॑ । तृप्तिः॑ । च॒ । तत्र॑ । माम् । अ॒मृत॑म् । कृ॒धि॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

सायणभाष्यम्

यत्र यस्मिन्लोके कामाः काम्यमानाः देवाः निकामानितरामवश्यं प्रार्थ्यमानाइन्द्रादव- श्च विद्यन्ते यद्वा सूर्येण विना कर्माणि नघटन्ते इति सर्वेषां कर्मणां कूलभूतस्यादित्यस्य विष्टपं सहस्थानं विद्यते यत्र लोके स्वधान्नं स्वधाकारेण दत्तमन्नं तृप्तिस्तर्पणं यत्रविद्यते तत्र लोके माममृतं कृधि ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७