मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११३, ऋक् ११

संहिता

यत्रा॑न॒न्दाश्च॒ मोदा॑श्च॒ मुदः॑ प्र॒मुद॒ आस॑ते ।
काम॑स्य॒ यत्रा॒प्ताः कामा॒स्तत्र॒ माम॒मृतं॑ कृ॒धीन्द्रा॑येन्दो॒ परि॑ स्रव ॥

पदपाठः

यत्र॑ । आ॒न॒न्दाः । च॒ । मोदाः॑ । च॒ । मुदः॑ । प्र॒ऽमुदः॑ । आस॑ते ।
काम॑स्य । यत्र॑ । आ॒प्ताः । कामाः॑ । तत्र॑ । माम् । अ॒मृत॑म् । कृ॒धि॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

सायणभाष्यम्

यत्र यस्मिन् लोके आनन्दादयआसते तेषामल्पोभेदोद्रष्टव्यः यत्र लोके कामस्य काम्य- मानस्य देवस्य सर्वेकामाआप्ताः प्राप्ताभवन्ति तत्र माममृतं कृधि एतत्तु त्वयाविना नघट इति हे सोम त्वं परिस्रव ॥ ११ ॥

यइन्दोइति चतुरृचमेकादशं सूक्तं ऋष्याद्याः पूर्ववत् । तथाचानुक्रम्यते—यइन्दोश्चतुष्क मिति । गतः सूक्तविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७