मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११४, ऋक् १

संहिता

य इन्दो॒ः पव॑मान॒स्यानु॒ धामा॒न्यक्र॑मीत् ।
तमा॑हुः सुप्र॒जा इति॒ यस्ते॑ सो॒मावि॑ध॒न्मन॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥

पदपाठः

यः । इन्दोः॑ । पव॑मानस्य । अनु॑ । धामा॑नि । अक्र॑मीत् ।
तम् । आ॒हुः॒ । सु॒ऽप्र॒जाः । इति॑ । यः । ते॒ । सो॒म॒ । अवि॑धत् । मनः॑ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

सायणभाष्यम्

पवमानस्य पूयमानस्य इन्दोः सोमस्य धामानि स्थानानि द्रोणकलशादीनि यद्वा धा- मानि तेजांसि योब्राह्मणः अन्वक्रमीत् अनुक्रामति अनुगच्छति तमनुजनं सुप्रजाः शोभन- प्रजननः कल्याणपुत्रादिप्रजायुक्तइत्याहुः । नित्यमसिच् प्रजामेधयोरित्यसिच् समासान्तः । यः सोममभिषुणोति सपुत्रादियुक्तोभवतीत्यर्थः । किंच हे सोम योमनुष्यः ते त्वदर्थं मनः अविधत् करोति यद्वा ते त्वदीयं मनः अविधत् परिचरति विधतिः परिचरणकर्मा तमपि कल्याणजननमित्याहुः तस्मात् त्वं परिस्रव ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८