मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११४, ऋक् २

संहिता

ऋषे॑ मन्त्र॒कृतां॒ स्तोमै॒ः कश्य॑पोद्व॒र्धय॒न्गिरः॑ ।
सोमं॑ नमस्य॒ राजा॑नं॒ यो ज॒ज्ञे वी॒रुधां॒ पति॒रिन्द्रा॑येन्दो॒ परि॑ स्रव ॥

पदपाठः

ऋषे॑ । म॒न्त्र॒ऽकृता॑म् । स्तोमैः॑ । कश्य॑प । उ॒त्ऽव॒र्धय॑न् । गिरः॑ ।
सोम॑म् । न॒म॒स्य॒ । राजा॑नम् । यः । ज॒ज्ञे । वी॒रुधा॑म् । पतिः॑ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

सायणभाष्यम्

ऋषिः स्वात्मानं प्रत्याह हे ऋषे सूक्तद्रष्टः हे कश्यप आत्मन् त्वं मंत्रकृतामृषीणां स्तोमैः स्तोत्रैः गिरः स्तुतिरूपावाचः उद्वर्धयन्नुपर्युपरिर्धन् राजानं सर्वेषां स्वामिनं तं सोमं नमस्य मनसा पूजय नमसः पूजायां नमोवरिवइति क्यच् । यः सोमः वीरुधां वनस्पतीनां पतिः पालकः सजज्ञे जातः तं नमस्य हे सोम यथा आत्मना सुतोभवसि तथा परिस्रव ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८