मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११४, ऋक् ३

संहिता

स॒प्त दिशो॒ नाना॑सूर्याः स॒प्त होता॑र ऋ॒त्विजः॑ ।
दे॒वा आ॑दि॒त्या ये स॒प्त तेभि॑ः सोमा॒भि र॑क्ष न॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥

पदपाठः

स॒प्त । दिशः॑ । नाना॑ऽसूर्याः । स॒प्त । होता॑रः । ऋ॒त्विजः॑ ।
दे॒वाः । आ॒दि॒त्याः । ये । स॒प्त । तेभिः॑ । सो॒म॒ । अ॒भि । र॒क्ष॒ । नः॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

सायणभाष्यम्

सप्तदिशः सोमोयस्यां दिशि वर्तते तद्भ्यतिरिक्ताः सप्तभवन्ति ताः नानासूर्याः नाना- विधैः सूर्यैरधिष्ठिताऋतवोभवन्ति नानालिंगत्वादृतूनां नानासूर्यत्वमित्याम्नानात् । यद्वा नानासूर्याइति दिग्विशेषणम् । तथा होतारः वषट् कर्तारोहोत्रादयः सप्तऋत्विजोभवन्ति किंच सप्तआदित्याः अदितेः पुत्राधात्रादयोमार्तंडवर्जिताः ये सप्तदेवाः सन्ति । एतत्तु— अष्टौ पुत्रासोअदितेः । इत्यत्र प्रपंचयिष्यते । हे सोम तेभिस्तैः दिगादिभिः सर्वैर्नोस्मान- भिरक्ष । एतत्तु त्वया विना नघटतइति तस्मादिन्द्रायेन्दो परिस्रव ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८