मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १, ऋक् २

संहिता

स जा॒तो गर्भो॑ असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु ।
चि॒त्रः शिशु॒ः परि॒ तमां॑स्य॒क्तून्प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गाः ॥

पदपाठः

सः । जा॒तः । गर्भः॑ । अ॒सि॒ । रोद॑स्योः । अग्ने॑ । चारुः॑ । विऽभृ॑तः । ओष॑धीषु ।
चि॒त्रः । शिशुः॑ । परि॑ । तमां॑सि । अ॒क्तून् । प्र । मा॒तृऽभ्यः॑ । अधि॑ । कनि॑क्रदत् । गाः॒ ॥

सायणभाष्यम्

हे अग्ने जातउत्पन्नः चारुः कल्याणरूपः ओषधीषु ओषधिविकारेष्वरणीषु विभृतः वि- शेषेण मथितः आहवनीयाद्यात्मना विविधं ह्रियमाणः ओषधीषु वर्तमानः सत्वं रोदस्यो- र्द्यावापृथिव्योर्गर्भोसि गर्भोभवसि अग्निरूपआदित्यरूपश्चेति । किंच चित्रश्चित्रवर्णः काली करालीचमनोजवेत्यादिसप्तजिह्वादिभिर्नानारूपः यद्वा चित्रश्चायनीयः शिशुः ओषधीनां शिशुः अग्निः तमांसि अक्तून् रात्रिवत् कृष्णान् शत्रूंश्च परिभवसि स्वतेजसा अभिभवसि सत्वं मातृभ्यः मातृरूपाभ्यः ओषधीभ्यः अधिः पंचम्यर्थद्योतकः ताभ्यः कनिक्रदत् पुनः पुनः शब्दंकुर्वन् प्रगाः प्रगच्छसि प्रजायसे ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९