मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १, ऋक् ३

संहिता

विष्णु॑रि॒त्था प॑र॒मम॑स्य वि॒द्वाञ्जा॒तो बृ॒हन्न॒भि पा॑ति तृ॒तीय॑म् ।
आ॒सा यद॑स्य॒ पयो॒ अक्र॑त॒ स्वं सचे॑तसो अ॒भ्य॑र्च॒न्त्यत्र॑ ॥

पदपाठः

विष्णुः॑ । इ॒त्था । प॒र॒मम् । अ॒स्य॒ । वि॒द्वान् । जा॒तः । बृ॒हन् । अ॒भि । पा॒ति॒ । तृ॒तीय॑म् ।
आ॒सा । यत् । अ॒स्य॒ । पयः॑ । अक्र॑त । स्वम् । सऽचे॑तसः । अ॒भि । अ॒र्च॒न्ति॒ । अत्र॑ ॥

सायणभाष्यम्

परमं उत्कृष्टं विद्वान् जानानः जातः प्रादुर्भूतोबृहन् महान् इत्था इत्थमनेन प्रकारेण विष्णुः व्यापनशीलः ज्ञानादिगुणयुक्तोग्निः अस्य इमे तृतीयं त्रयाणां पूरकं त्रितं मां अभि- पाति अभिरक्षतु । एकतोद्वितस्त्रितइति त्रयोबभूवुरिति यास्केनोक्तम् । किंच अस्याग्नेः स्व- मात्मीयं पयउदकं आसा आस्येन यद्यदा अक्रत कुर्वन्ति यजमानायाचन्ते तदानीं अत्रा- स्मिन्लोके स्थिताः स्तोतारः सचेतसः समानमनस्काभूत्वा एनमभ्यर्चन्ति अभिष्टुवन्ति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९