मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १, ऋक् ५

संहिता

होता॑रं चि॒त्रर॑थमध्व॒रस्य॑ य॒ज्ञस्य॑यज्ञस्य के॒तुं रुश॑न्तम् ।
प्रत्य॑र्धिं दे॒वस्य॑देवस्य म॒ह्ना श्रि॒या त्व१॒॑ग्निमति॑थिं॒ जना॑नाम् ॥

पदपाठः

होता॑रम् । चि॒त्रऽर॑थम् । अ॒ध्व॒रस्य॑ । य॒ज्ञस्य॑ऽयज्ञस्य । के॒तुम् । रुश॑न्तम् ।
प्रति॑ऽअर्धिम् । दे॒वस्य॑ऽदेवस्य । म॒ह्ना । श्रि॒या । त्वम् । अ॒ग्निम् । अति॑थिम् । जना॑नाम् ॥

सायणभाष्यम्

अध्वरस्य यज्ञस्य होतारं एतन्नामानं ऋत्विजं यद्वा होतारं देवानामाह्वातारं चित्र- रथं नानारूपरथं अध्वरस्य रक्षोभिरहिंसितस्य यज्ञस्ययज्ञस्य सर्वस्य यज्ञस्य केतुं प्रज्ञा- पकं पताकास्थानीयंवा रुशंतं श्वेतवर्णं महा स्वमहत्वेन देवस्यदेवस्य सर्वेषां देवानां प्र- त्यर्धिं इन्द्रं प्रति भवन्तम् । यत् सर्वेषामार्धिमिन्द्रंप्रतीतिब्राह्मणम् । तादृशं जनानां यजमा- नानामतिथिं अतिथिवत्पूज्यं अग्निं तु क्षिप्रं श्रिया श्रियेर्थं वयं स्तुमः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९