मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १, ऋक् ६

संहिता

स तु वस्त्रा॒ण्यध॒ पेश॑नानि॒ वसा॑नो अ॒ग्निर्नाभा॑ पृथि॒व्याः ।
अ॒रु॒षो जा॒तः प॒द इळा॑याः पु॒रोहि॑तो राजन्यक्षी॒ह दे॒वान् ॥

पदपाठः

सः । तु । वस्त्रा॑णि । अध॑ । पेश॑नानि । वसा॑नः । अ॒ग्निः । नाभा॑ । पृ॒थि॒व्याः ।
अ॒रु॒षः । जा॒तः । प॒दे । इळा॑याः । पु॒रःऽहि॑तः । रा॒ज॒न् । य॒क्षि॒ । इ॒ह । दे॒वान् ॥

सायणभाष्यम्

हे राजन् दीप्यमानाग्ने वस्त्राणि आच्छादकानि तेजांसि अध अपिच पेशनानि तेषां तेजसां काष्णर्यशौक्ल्यादीनि रूपाणि यद्वा अधानन्तरं पेशनानि पेशइति हिरण्यनाम हिरण्यवत् हिरण्यसदृशानि भास्वराणि तेजांसि वसान आच्छादयन् पृथिव्यानाभा नाभौ नाभिस्थानीये इळायास्पदे उत्तरवेद्याम् । एतद्वा इळायास्पदंयदुत्तरवेदीनाभिरित्याम्नानात् । तस्यां जातः समुत्पन्नः अरुषः आरोचमानोयोग्निः एवं विधोसि सत्वं पुरोहितः पुरतोनि- हितः पूर्वस्यां दिशि आहवनीयायतने स्थापितः सन् इहास्मिन्यज्ञे देवान् इन्द्रादीन् यक्षि पूजय ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९